ભારતીય કાવ્યસિદ્ધાંત/(૧૪) આચાર્ય અભિનવગુપ્તનો મત

From Ekatra Wiki
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
(૧૪) આચાર્ય અભિનવગુપ્તનો મત : (પૃ.૮૨)

મમ્મટ એમનો મત આદરપૂર્વક આ પ્રમાણે રજૂ કરે છે : लोके प्रमदादिभिः स्थाय्यनुमाने अभ्यासपाटववतां काव्ये नाट्ये च तैः एव कारणत्वादिपरिहारेण विभावनादिव्यापार वत्त्वाद् अलौकिकविभावादिशब्दव्यवहार्यैः ममैव एते शत्रोरेव एते तटस्थस्यैव एते न ममैव एते न शत्रोरेव एते न तटस्थस्यैव एते इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैः अभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेधान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इव अभिन्नः अपि गोचरीकृतः चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुरः इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिव आलिङ्गन् अन्यत्सर्वमिव तिरोदधत् ब्रह्मास्वादमिव अनुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः ।