ભારતીય કાવ્યસિદ્ધાંત/(૧૪) આચાર્ય અભિનવગુપ્તનો મત
મમ્મટ એમનો મત આદરપૂર્વક આ પ્રમાણે રજૂ કરે છે : लोके प्रमदादिभिः स्थाय्यनुमाने अभ्यासपाटववतां काव्ये नाट्ये च तैः एव कारणत्वादिपरिहारेण विभावनादिव्यापार वत्त्वाद् अलौकिकविभावादिशब्दव्यवहार्यैः ममैव एते शत्रोरेव एते तटस्थस्यैव एते न ममैव एते न शत्रोरेव एते न तटस्थस्यैव एते इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैः अभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेधान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इव अभिन्नः अपि गोचरीकृतः चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुरः इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिव आलिङ्गन् अन्यत्सर्वमिव तिरोदधत् ब्रह्मास्वादमिव अनुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः ।