મંગલમ્/गीतापाठ
श्री अर्जुन उवाच
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-सम्मूढ चेताः॥
यद्श्रेयः स्यान् निश्चितम् ब्रूहि तन् मे
शिष्यस् तेऽहं शाधि मां त्वां प्रपन्नाम्॥
श्री भगवान् उवाच
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वाम् सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्म फल-हेतुर भूर् मा ते संगोत्स्व कर्मणि॥
प्रजहाति यदा कामान् सर्वान् पार्थङ्मनोगतान्।
आत्मान्येवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते॥
विहाय कामान् यः सर्वान पुमांश् चरति निःस्पृह।
निर्ममो निरहंकार स शान्तिम् अधिगच्छति॥
उद्धरेद्आत्मनिआत्मानम् न आत्मानम् अवसादयेत्।
आत्मैव हि आत्मनो बन्धुर् आत्मैवरिपुर् आत्मनः॥
श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते।
ध्यानात् कर्म-फल-त्यागः त्यागोतः शान्ति अनन्तरम्॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्म-निरतः सिद्धिं यथा विन्दति तत् श्रुणु॥
ये तु धर्भ्यामृतम् इदं यथोक्तं-पर्युपासते।
श्रद्धाना मत् परमा(:) भक्तास् तेऽतीव में प्रियाः॥